वांछित मन्त्र चुनें
आर्चिक को चुनें

व꣣यं꣡ ते꣢ अ꣣स्य꣡ राध꣢꣯सो꣣ व꣡सो꣢र्वसो पुरु꣣स्पृ꣡हः꣢ । नि꣡ नेदि꣢꣯ष्ठतमा इ꣣षः꣡ स्याम꣢꣯ सु꣣म्ने꣡ ते꣢ अध्रिगो ॥१२३९॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

वयं ते अस्य राधसो वसोर्वसो पुरुस्पृहः । नि नेदिष्ठतमा इषः स्याम सुम्ने ते अध्रिगो ॥१२३९॥

मन्त्र उच्चारण
पद पाठ

व꣣य꣢म् । ते꣣ । अस्य꣢ । रा꣡ध꣢꣯सः । व꣡सोः꣢꣯ । व꣣सो । पुरुस्पृ꣡हः꣢ । पु꣣रु । स्पृ꣡हः꣢꣯ । नि । ने꣡दि꣢꣯ष्ठतमाः । इ꣣षः꣢ । स्या꣡म꣢꣯ । सु꣣म्ने꣢ । ते꣣ । अध्रिगो ॥१२३९॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1239 | (कौथोम) 5 » 1 » 16 » 2 | (रानायाणीय) 9 » 8 » 2 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में फिर वही विषय है।

पदार्थान्वयभाषाः -

हे (वसो) निवास देनेवाले परमात्मन्, राजन् वा आचार्य ! (वयम्) हम प्रार्थी लोग (ते) आपके (अस्य) इस (वसोः) निवासक, (पुरुस्पृहः) अतिशय चाहने योग्य, (इषः) अभीष्ट (राधसः) आध्यात्मिक ऐश्वर्य, सुवर्ण आदि ऐश्वर्य वा विद्याधन के (नि) अत्यधिक (नेदिष्ठतमाः) निकटतम (स्याम) होवें और, हे (अध्रिगो) बेरोक गतिवाले परमात्मन्, राजन् वा आचार्य ! हम (ते) आपके अर्थात् आपसे दिये हुए (सुम्ने) सुख में (स्याम) होवें ॥२॥

भावार्थभाषाः -

परमात्मा से आध्यात्मिक धन, राजा से भौतिक धन और आचार्य से विद्या-धन पाकर सब लोगों को सुखी होना योग्य है ॥२॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ पुनस्तमेव विषयमाह।

पदार्थान्वयभाषाः -

हे (वसो) वासयितः परमात्मन् नृपते आचार्य वा ! (वयम्) प्रार्थिनः (ते) तव (अस्य) एतस्य (वसोः) निवासकस्य, (पुरुस्पृहः) अतिशयस्पृहणीयस्य, (इषः) अभीष्टस्य (राधसः) आध्यात्मिकस्य ऐश्वर्यस्य, सुवर्णादिधनस्य, विद्याधनस्य वा (नि) नितराम् (नेदिष्ठतमाः) निकटतमाः (स्याम) भवेम। अपि च, हे (अध्रिगो) अधृतगमन परमात्मन् नृपते आचार्य वा ! [अध्रिगो अधृतगमन। निरु० ५।११।] वयम् (ते) तव, त्वया प्रदत्ते (सुम्ने) सुखे (स्याम) भवेम ॥२॥

भावार्थभाषाः -

परमात्मनः सकाशादाध्यात्मिकं धनम्, नृपतेः सकाशाद् भौतिकं धनम्, आचार्यसकाशाच्च विद्याधनं प्राप्य सर्वे सुखिनो भवितुमर्हन्ति ॥२॥

टिप्पणी: १. ऋ० ९।९८।५, ‘व॒यं ते॑ अ॒स्य वृ॑त्रहन् वसो॒ वस्वः॑ पुरु॒स्पृहः॑। नि नेदि॑ष्ठतमा इ॒षः स्याम॑ सु॒म्नस्या॑ध्रिगो’ ॥ इति पाठः।